३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.154. अध्यायः 154
Mahabharata - Vana Parva - Chapter Topics
सौगन्धिकसरोविविक्षुं भीमंप्रति तद्रक्षिभिः क्रोधवशनामकै राक्षसैस्तच्चिकीर्षिप्रश्नः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-154-0x(2280)(21778)
स गत्वानलिनीं रम्यां राक्षसैरभिरक्षिताम्।
कैलासशिरे रम्ये ददर्श शुभकानने ॥ 3-154-1(21779)
कुबेरभुवनाभ्याशे जातां पर्वतनिर्झरैः।
सुरम्यां विपुलच्छायां नानाद्रुमलताकुलाम् ॥ 3-154-2(21780)
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्।
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम् ॥ 3-154-3(21781)
अतीव रम्यां सुजलां जातां पर्वतसानुषु।
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥ 3-154-4(21782)
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्।
ददर्शविमलं तोयं पिबंश्च बहु पाण्डवः ॥ 3-154-5(21783)
तां तु कपुष्करिणीं रम्यां दिव्यसौगन्धिकावृताम्।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥ 3-154-6(21784)
वैडूर्यवरनालैश्च बहुचित्रैर्मनोरमैः।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥ 3-154-7(21785)
आक्रीडं राजराजस् कुबेरस्य महात्मनः।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥ 3-154-8(21786)
सेवितामृषिभिर्दिव्यैर्यक्षैः किंपुरुषैस्तथा।
राक्षसैः किंनरैश्चापि गुप्तां वैश्रवणेन च ॥ 3-154-9(21787)
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाहलः।
बभूव परमप्रीतो दिव्यंप्रेक्ष्य सरो महत् ॥ 3-154-10(21788)
तच्च क्रोवशा नाम राक्षसा राजशासनात्।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥ 3-154-11(21789)
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ 3-154-12(21790)
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्।
पुष्करप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥ 3-154-13(21791)
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥ 3-154-14(21792)
ततः सर्वे महाबाहुं समासाद्यवृकोदरम्।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥ 3-154-15(21793)
मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे।
यदर्थमाभिसंप्राप्तस्तदाचक्ष्यमहामते ॥ 3-154-16(21794)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-154-3 सूपतीर्थां शोभनानि उपतीर्थानि तीराणि यस्यां सा ॥ 3-154-5 लघु आरोग्यकरम् ॥ 3-154-6 जातरूपं स्वर्णम् ॥ 3-154-8 आक्रीडं क्रीडास्थानम् ॥

|